Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 57
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पुरोऽतिजागता जगती सूक्तम् - भूमि सूक्त

    अश्व॑ इव॒ रजो॑ दुधुवे॒ वि ताञ्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत। म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥

    स्वर सहित पद पाठ

    अश्व॑:ऽइव । रज॑: । दु॒धु॒वे॒ । वि । तान् । जना॑न् । ये । आ॒ऽअक्षि॑यन् । पृ॒थि॒वीम् । यात् । आजा॑यत । म॒न्द्रा । अ॒ग्र॒ऽइत्व॑री । भुव॑नस्य । गो॒पा: । वन॒स्पती॑नाम् । गृभि॑: । ओष॑धीनाम् ॥१.५७॥


    स्वर रहित मन्त्र

    अश्व इव रजो दुधुवे वि ताञ्जनान्य आक्षियन्पृथिवीं यादजायत। मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥

    स्वर रहित पद पाठ

    अश्व:ऽइव । रज: । दुधुवे । वि । तान् । जनान् । ये । आऽअक्षियन् । पृथिवीम् । यात् । आजायत । मन्द्रा । अग्रऽइत्वरी । भुवनस्य । गोपा: । वनस्पतीनाम् । गृभि: । ओषधीनाम् ॥१.५७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 57

    टिप्पणीः - ५७−(अश्वः) तुरङ्गः (इव) यथा (रजः) धूलिम् (दुधुवे) धुञ्, धूञ् कम्पने−लिट्। कम्पितवती (वि) विविधम् (तान्) (जनान्) (ये) (आ−अक्षियन्) क्षि क्षये हिंसायां च−लङ्, तुदादित्वं छान्दसम्। अक्षयन्। हिंसितवन्तः (पृथिवीम्) (यात्) यत्कालमारभ्य (अजायत) उत्पन्ना अभूत् (मन्द्राः) स्फायितञ्चि०। उ० २।१३। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-रक्। मोदयित्री (अग्रेत्वरी) शीङ्क्रुशिरुहिजि०। उ० ४।११४। अग्र+इण् गतौ−क्वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। अग्रगामिनी (भुवनस्य) संसारस्य (गोपाः) गोपायतीति गोपाः, गुपू रक्षणे−विच्, अतो लोपः, यलोपः। रक्षिका (वनस्पतीनाम्) अश्वत्थादिवृक्षाणाम् (गृभिः) भ्रमेः सम्प्रसारणं च। उ० ४।१२१। ग्रह उपादाने−इन्, स च कित्। ग्रहणस्थानम् (ओषधीनाम्) सोमलतान्नादीनाम् ॥

    इस भाष्य को एडिट करें
    Top