अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 28
उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः। प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ॥
स्वर सहित पद पाठउ॒त्ऽईरा॑णा: । उ॒त । आसी॑ना: । तिष्ठ॑न्त: । प्र॒ऽक्राम॑न्त: । प॒त्ऽभ्याम् । द॒क्षि॒ण॒ऽस॒व्याभ्या॑म् । मा । व्य॒थि॒ष्म॒हि॒ । भूम्या॑म् ॥१.२८॥
स्वर रहित मन्त्र
उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः। पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥
स्वर रहित पद पाठउत्ऽईराणा: । उत । आसीना: । तिष्ठन्त: । प्रऽक्रामन्त: । पत्ऽभ्याम् । दक्षिणऽसव्याभ्याम् । मा । व्यथिष्महि । भूम्याम् ॥१.२८॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(उदीराणाः) ईर गतौ−शानच्। उद्गच्छन्तः (उत) अपि च (आसीनाः) उपविष्टाः (तिष्ठन्तः) गतिनिवृत्तिं कुर्वन्तः (प्रक्रामन्तः) प्रकर्षेण पादविक्षेपं कुर्वन्तः (पद्भ्याम्) चरणाभ्याम् (दक्षिणसव्याभ्याम्) दक्षिणवामाभ्याम् (मा व्यथिष्महि) व्यथ भयसंचलनयोः−लुङ्। न संचलेम (भूम्याम्) ॥
इस भाष्य को एडिट करें