Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 19
    सूक्त - अथर्वा देवता - भूमिः छन्दः - उरोबृहती सूक्तम् - भूमि सूक्त

    अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु। अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । भूम्या॑म् । ओष॑धीषु । अ॒ग्निम् । आप॑: । बि॒भ्र॒ति॒ । अ॒ग्नि: । अश्म॑ऽसु । अ॒ग्नि: । अ॒न्त: । पुरु॑षेषु । गोषु॑ । अश्वे॑षु । अ॒ग्नय॑: ॥१.१९॥


    स्वर रहित मन्त्र

    अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु। अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥

    स्वर रहित पद पाठ

    अग्नि: । भूम्याम् । ओषधीषु । अग्निम् । आप: । बिभ्रति । अग्नि: । अश्मऽसु । अग्नि: । अन्त: । पुरुषेषु । गोषु । अश्वेषु । अग्नय: ॥१.१९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 19

    टिप्पणीः - १९−(अग्निः) अग्नितापः (भूम्याम्) पृथिव्याम् (ओषधीषु) अन्नसोमलतादिषु (अग्निम्) तापम् (आपः) जलानि (बिभ्रति) धारयन्ति (अग्निः) (अश्मसु) अ० १।२।२। पाषाणेषु। मेघेषु−निघ० १।१०। (अग्निः) (अन्तः) मध्ये (पुरुषेषु) (गोषु) (अश्वेषु) (अग्नयः) अग्नितापाः ॥

    इस भाष्य को एडिट करें
    Top