अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 21
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - एकावसाना साम्नी त्रिष्टुप्
सूक्तम् - भूमि सूक्त
अ॒ग्निवा॑साः पृथि॒व्यसित॒ज्ञूस्त्विषी॑मन्तं॒ संशि॑तं मा कृणोतु ॥
स्वर सहित पद पाठअ॒ग्निऽवा॑सा: । पृ॒थि॒वी । अ॒सि॒त॒ऽज्ञू: । त्विषि॑ऽमन्तम् । सम्ऽशि॑तम् । मा॒ । कृ॒णो॒तु॒ ॥१.२१॥
स्वर रहित मन्त्र
अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥
स्वर रहित पद पाठअग्निऽवासा: । पृथिवी । असितऽज्ञू: । त्विषिऽमन्तम् । सम्ऽशितम् । मा । कृणोतु ॥१.२१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(अग्निवासाः) वसेर्णित्। उ० ४।११८। वस निवासे आच्छादने च−असुन्। अग्निना तापेन सह निवासो यस्याः सा। यद्वा, तापो वस्त्रं यस्याः सा (पृथिवी) (असितज्ञूः) षिञ् बन्धने−क्त+ अन्दूदृम्फूजम्बू०। उ० १।९३। ज्ञा विज्ञापने−कू। अबद्धं कर्म ज्ञापयति बोधयति नियोजयति वा सा (त्विषिमन्तम्) दीप्तिमन्तम् (संशितम्) तीक्ष्णीकृतम् (मा) माम् (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें