Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 24
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पञ्चपदानुष्टुब्गर्भा जगती सूक्तम् - भूमि सूक्त

    यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे। अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॒ मा सु॑र॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

    स्वर सहित पद पाठ

    य: । ते॒ । ग॒न्ध: । पुष्क॑रम् । आ॒ऽवि॒वेश॑ । यम् । स॒म्ऽज॒भ्रु: । सू॒र्याया॑: । वि॒ऽवा॒हे । अम॑र्त्या: । पृ॒थि॒वि॒ । ग॒न्धम् । अग्रे॑ । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥१.२४॥


    स्वर रहित मन्त्र

    यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे। अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥

    स्वर रहित पद पाठ

    य: । ते । गन्ध: । पुष्करम् । आऽविवेश । यम् । सम्ऽजभ्रु: । सूर्याया: । विऽवाहे । अमर्त्या: । पृथिवि । गन्धम् । अग्रे । तेन । मा । सुरभिम् । कृणु । मा । न: । द्विक्षत । क: । चन ॥१.२४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 24

    टिप्पणीः - २४−(यः) (ते) तव (गन्धः) म० २३ (पुष्करम्) पूषः कित्। उ० ४।४। पुष्णातेः−करन्। पोषकं पदार्थम्। कमलम् (आविवेश) प्रविष्टवान् (यम्) (संजभ्रुः) हृञ् हरणे−लिट्, हस्य भः संजह्रुः। संगृहीतवन्तः (सूर्यायाः) अ० ९।४।१४। सूर्यदीप्तेः (विवाहे) प्रवाहे। प्रापणे (अमर्त्याः) अमरधर्माणः। पुरुषार्थिनो जनाः (पृथिवी) (गन्धम्) (अग्रे)। अन्यत् पूर्ववत् म० २३ ॥

    इस भाष्य को एडिट करें
    Top