Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 31
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥

    स्वर सहित पद पाठ

    या: । ते॒ । प्राची॑: । प्र॒ऽदिश॑: । या: । उदी॑ची: । या: । ते॒ । भू॒मे॒ । अ॒ध॒रात् । या: । च॒ । प॒श्चात् । स्यो॒ना: । ता: । मह्य॑म् । चर॑ते । भ॒व॒न्तु॒ । मा । नि । प॒प्त॒म् । भुव॑ने । शि॒श्रि॒याण: ॥१.३१॥


    स्वर रहित मन्त्र

    यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥

    स्वर रहित पद पाठ

    या: । ते । प्राची: । प्रऽदिश: । या: । उदीची: । या: । ते । भूमे । अधरात् । या: । च । पश्चात् । स्योना: । ता: । मह्यम् । चरते । भवन्तु । मा । नि । पप्तम् । भुवने । शिश्रियाण: ॥१.३१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 31

    टिप्पणीः - ३१−(याः) (ते) तव (प्राचीः) अ० ३।२६।१। प्राच्यः। स्वाभिमुखीभूताः (प्रदिशः) प्रकृष्टा दिशः (याः) (उदीचीः) अ० ३।२६।४। उदीच्यः। उपरिवर्तमाना दिशाः (याः) (ते) (भूमे) (अधरात्) अधस्तात् (याः) (च) (पश्चात्) (स्योनाः) सुखदाः (ताः) (मह्यम्) (चरते) विचरणशीलाय (भवन्तु) (मा नि पप्तम्) पत्लृ गतौ−लुङ्। अहं न निपतानि (भुवने) संसारे (शिश्रियाणः) अ० १।१२।२। श्रिञ्−कानच्। आश्रयं गृह्णानः ॥

    इस भाष्य को एडिट करें
    Top