Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 17
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना पञ्चपदा शक्वरी सूक्तम् - भूमि सूक्त

    वि॑श्व॒स्वं मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्। शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥

    स्वर सहित पद पाठ

    वि॒श्व॒ऽस्व᳡म् । मा॒तर॑म् । ओष॑धीनाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । धर्म॑णा । धृ॒ताम् । शि॒वाम् । स्यो॒नाम् । अनु॑ । च॒रे॒म॒ । वि॒श्वहा॑ ॥१.१७॥


    स्वर रहित मन्त्र

    विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्। शिवां स्योनामनु चरेम विश्वहा ॥

    स्वर रहित पद पाठ

    विश्वऽस्वम् । मातरम् । ओषधीनाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । धर्मणा । धृताम् । शिवाम् । स्योनाम् । अनु । चरेम । विश्वहा ॥१.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 17

    टिप्पणीः - १७−(विश्वस्वम्) षूङ् प्राणिगर्भविमोचने−क्विप्। सर्वस्य प्रसवित्रीम्, उत्पादयित्रीम् (मातरम्) जननीम् (ओषधीनाम्) अन्नसोमलतादीनाम् (ध्रुवाम्) दृढाम् (भूमिम्) निवासस्थानम् (पृथिवीम्) (धर्मणा) धरणीयेन स्वभावेन कर्मणा वा (धृताम्) धारिताम् (शिवाम्) कल्याणीम् (स्योनाम्) सुखदाम् (अनु) अनुसृत्य (चरेम) गच्छेम (विश्वहा) विश्वधा। अनेकप्रकारेण ॥

    इस भाष्य को एडिट करें
    Top