अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 49
ये त॑ आर॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति। उ॒लं वृकं॑ पृथिवि दु॒च्छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत् ॥
स्वर सहित पद पाठये । ते । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । सिं॒हा: । व्या॒घ्रा । पु॒रु॒ष॒ऽअद॑: । चर॑न्ति । उ॒लम् । वृक॑म् । पृ॒थि॒वि॒ । दु॒च्छुना॑म् । इ॒त: । ऋ॒क्षीका॑म् । रक्ष॑: । अप॑ । बा॒ध॒य॒ । अ॒स्मत् ॥१.४९॥
स्वर रहित मन्त्र
ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति। उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥
स्वर रहित पद पाठये । ते । आरण्या: । पशव: । मृगा: । वने । हिता: । सिंहा: । व्याघ्रा । पुरुषऽअद: । चरन्ति । उलम् । वृकम् । पृथिवि । दुच्छुनाम् । इत: । ऋक्षीकाम् । रक्ष: । अप । बाधय । अस्मत् ॥१.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(ये) (ते) प्रसिद्धाः (आरण्याः) अरण्याण् णो वक्तव्यः। वा० पा० ४।२।१०४। अरण्य-ण। अरण्ये भवाः (पशवः) (मृगाः) हरिणाः (वने) (हिताः) हितकराः (सिंहाः) अ० ४।८।७। हिंसका जन्तुविशेषाः (व्याघ्राः) अ० ४।३।१। विशिष्टाघ्राणमात्रेण प्राणिनां हिंसकजन्तुविशेषाः (पुरुषादः) मनुष्यभक्षकाः (चरन्ति) विचरन्ति (उलम्) उल दाहे सौत्रो धातुः−क। उष्णस्वभावं वनमार्जारम् (वृकम्) अ० ३।४।१। हिंस्रजन्तुविशेषम् (पृथिवी) (दुच्छुनाम्) टुदु उपतापे−क्विप् तुक् च, शुन गतौ−क, टाप्। दुष्टगतिम् (इतः) अस्मात् स्थानात् (ऋक्षीकाम्) कषिदूषिभ्यामीकन्। उ० ४।१६। ऋक्ष हिंसायाम्−ईकन्। हिंसिकां भल्लूकीम् (रक्षः) राक्षसम् (अपबाधय) अपबाधस्व। दूरीकुरु (अस्मत्) ॥
इस भाष्य को एडिट करें