Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 40
    सूक्त - अथर्वा देवता - भूमिः छन्दः - अनुष्टुप् सूक्तम् - भूमि सूक्त

    सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे। भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः ॥

    स्वर सहित पद पाठ

    सा । न॒: । भूमि॑: । आ । दि॒श॒तु॒ । यत् । धन॑म् । का॒मया॑महे । भग॑: । अ॒नु॒ऽप्रयु॑ङ्क्ताम् । इन्द्र॑: । ए॒तु॒ । पु॒र॒:ऽग॒व: ॥१.४०॥


    स्वर रहित मन्त्र

    सा नो भूमिरा दिशतु यद्धनं कामयामहे। भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥

    स्वर रहित पद पाठ

    सा । न: । भूमि: । आ । दिशतु । यत् । धनम् । कामयामहे । भग: । अनुऽप्रयुङ्क्ताम् । इन्द्र: । एतु । पुर:ऽगव: ॥१.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 40

    टिप्पणीः - ४०−(सा) पूर्वोक्ता−म–० ३८, ३९ (नः) अस्मभ्यम् (भूमिः) (आ) समन्तात् (दिशतु) ददातु (यत्) (धनम्) (कामयामहे) इच्छामः (भगः) ऐश्वर्यम् (अनुप्रयुङ्क्ताम्) निरन्तरं प्राप्नोतु (इन्द्रः) ऐश्वर्यवान् पुरुषः (एतु) गच्छतु (पुरोगवः) गोरतद्धितलुकि। पा० ५।४।९२। इति पुरस्+गो समासे टच्। अग्रगामी सन् ॥

    इस भाष्य को एडिट करें
    Top