Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 9
    सूक्त - अथर्वा देवता - भूमिः छन्दः - परानुष्टुप्त्रिष्टुप् सूक्तम् - भूमि सूक्त

    यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति। सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥

    स्वर सहित पद पाठ

    यस्या॑म् । आप॑: । प॒रि॒ऽच॒रा: । स॒मा॒नी: । अ॒हो॒रा॒त्रे इति॑ । अप्र॑ऽमादम् । क्षर॑न्ति । सा । न॒: । भूमि॑: । भूरि॑ऽधारा । पय॑: । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.९॥


    स्वर रहित मन्त्र

    यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति। सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥

    स्वर रहित पद पाठ

    यस्याम् । आप: । परिऽचरा: । समानी: । अहोरात्रे इति । अप्रऽमादम् । क्षरन्ति । सा । न: । भूमि: । भूरिऽधारा । पय: । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 9

    टिप्पणीः - ९−(यस्याम् भूम्याम्) (आपः) आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। (परिचराः) परिचारकाः। सेवाशीलाः (समानीः) समानचित्ताः (अहोरात्रे) अहर्निशम् (अप्रमादम्) प्रमादराहित्येन (क्षरन्ति) सञ्चलन्ति। वहन्ति (सा) (नः) अस्मभ्यम् (भूमिः) (भूरिधारा) बहुधारयुक्ता (पयः) अन्नम्−निघ० २।७। अन्यत् पूर्ववत्−म० ७ ॥

    इस भाष्य को एडिट करें
    Top