अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 47
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - षट्पदानुष्टुब्गर्भा परातिशक्वरी
सूक्तम् - भूमि सूक्त
ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे। यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥
स्वर सहित पद पाठये । ते॒ । पन्था॑न: । ब॒हव॑: । ज॒न॒ऽअय॑ना: । रथ॑स्य । वर्त्म॑ । अन॑स: । च॒ । यात॑वे । यै: । स॒म्ऽच॑रन्ति । उ॒भये॑ । भ॒द्र॒ऽपा॒पा: । तम् । पन्था॑नम् । ज॒ये॒म॒ । अ॒न॒मि॒त्रम् । अ॒त॒स्क॒रम् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४७॥
स्वर रहित मन्त्र
ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे। यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥
स्वर रहित पद पाठये । ते । पन्थान: । बहव: । जनऽअयना: । रथस्य । वर्त्म । अनस: । च । यातवे । यै: । सम्ऽचरन्ति । उभये । भद्रऽपापा: । तम् । पन्थानम् । जयेम । अनमित्रम् । अतस्करम् । यत् । शिवम् । तेन । न: । मृड ॥१.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 47
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४७−(ये) (ते) तव (पन्थानः) मार्गाः (बहवः) नानाप्रकाराः (जनायनाः) जन+अयनाः। मनुष्यैर्गन्तुं योग्याः (रथस्य) रमणीययानस्य (वर्त्म) मार्गः (अनसः) अन जीवने−असुन्। शकटस्य। अन्नस्य। (च) (यातवे) यातुम् (यैः) मार्गैः (संचरन्ति) विचरन्ति (उभये) द्वित्वविशिष्टाः (भद्रपापाः) साध्वसाधवः (तम्) पन्थानम् (जयेम) जयेन प्राप्नुयाम (अनमित्रम्) अशत्रुम् (अतस्करम्) अचौरम्। अन्यत् पूर्ववत्−म० ४६ ॥
इस भाष्य को एडिट करें