Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 55
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्। आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    अ॒द: । यत् । दे॒वि॒ । प्रथ॑माना । पु॒रस्ता॑त् । दे॒वै: । उ॒क्ता । वि॒ऽअस॑र्प: । म॒हि॒ऽत्वम् । आ । त्वा॒ । सु॒ऽभू॒तम् । अ॒वि॒श॒त् । त॒दानी॑म् । अक॑ल्पयथा: । प्र॒ऽदिश॑: । चत॑स्र: ॥१.५५॥


    स्वर रहित मन्त्र

    अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम्। आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    अद: । यत् । देवि । प्रथमाना । पुरस्तात् । देवै: । उक्ता । विऽअसर्प: । महिऽत्वम् । आ । त्वा । सुऽभूतम् । अविशत् । तदानीम् । अकल्पयथा: । प्रऽदिश: । चतस्र: ॥१.५५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 55

    टिप्पणीः - ५५−(अदः) तत् (यत्) यदा (देवि) हे दिव्यगुणवति (प्रथमाना) विस्तीर्यमाणा (पुरस्तात्) अग्रे वर्तमाना सती (देवैः) व्यवहारकुशलैः (उक्ता) कथिता (व्यसर्पः) त्वं विस्तारितवती (महित्वम्) महिमानम् (आ) समन्तात् (त्वा) पृथिवीम् (सुभूतम्) सुभूतिम्। महैश्वर्यम् (अविशत्) प्रविष्टम् (तदानीम्) (अकल्पयथाः) त्वं समर्थाः कृतवती (प्रदिशः) प्रकृष्टा दिशाः (चतस्रः) ॥

    इस भाष्य को एडिट करें
    Top