अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 37
याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्वन्तः। परा॒ दस्यू॒न्दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्। श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ॥
स्वर सहित पद पाठया । अप॑ । स॒र्पम् । वि॒जमा॑ना । वि॒ऽमृग्व॑री । यस्या॑म् । आस॑न् । अ॒ग्नय॑: । ये । अ॒प्ऽसु । अ॒न्त: । परा॑ । दस्यू॑न् । दद॑ती । दे॒व॒ऽपी॒यून् । इन्द्र॑म् । वृ॒णा॒ना । पृ॒थि॒वी । न । वृ॒त्रम् । श॒क्राय॑ । द॒ध्रे॒ । वृ॒ष॒भाय॑ । वृष्णे॑ ॥१.३७॥
स्वर रहित मन्त्र
याप सर्पं विजमाना विमृग्वरी यस्यामासन्नग्नयो ये अप्स्वन्तः। परा दस्यून्ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रम्। शक्राय दध्रे वृषभाय वृष्णे ॥
स्वर रहित पद पाठया । अप । सर्पम् । विजमाना । विऽमृग्वरी । यस्याम् । आसन् । अग्नय: । ये । अप्ऽसु । अन्त: । परा । दस्यून् । ददती । देवऽपीयून् । इन्द्रम् । वृणाना । पृथिवी । न । वृत्रम् । शक्राय । दध्रे । वृषभाय । वृष्णे ॥१.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(या) पृथिवी (अप सर्पम्) अपसर्पणेन अपसरणेन तथा यथा (विजमाना) ओविजी भयचलनयोः−शानच्। चलन्ती (विमृग्वरी) म० २९। विविधमन्वेषणीयां (यस्याम्) पृथिव्याम् (आसन्) सन्ति (अग्नयः) अग्नितापाः (ये) (अप्सु) आपः=आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। प्रजासु। प्राणिषु (अन्तः) मध्ये (परा) दूरे (दस्यून्) अ० २।१४।५। परपदार्थनाशकान् (ददती) दद दाने−शतृ छन्दसि। ददमाना। त्यजन्ती (देवपीयून्) अ० ४।३५।७। विदुषां हिंसकान् (इन्द्रम्) ऐश्वर्यवन्तं पुरुषम् (वृणाना) स्वीकुर्वाणा (पृथिवी) (न) निषेधे (वृत्रम्) धर्मात्मनां वारकं शत्रुम् (शक्राय) शक्तिमते (दध्रे) बहुलं छन्दसि। पा० ७।१।८। लिटो रुडागमः। दधे। धृतास्ति (वृषभाय) बलवते (वृष्णे) वीर्यवते पुरुषाय ॥
इस भाष्य को एडिट करें