अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 61
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोबार्हता त्रिष्टुप्
सूक्तम् - भूमि सूक्त
त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥
स्वर सहित पद पाठत्वम् । अ॒सि॒ । आ॒ऽवप॑नी । जना॑नाम् । अदि॑ति: । का॒म॒ऽदुघा॑ । प॒प्र॒था॒ना । यत् । ते॒ । ऊ॒नम् । तत् । ते॒ । आ । पू॒र॒य॒ति॒ । प्र॒जाऽप॑ति: । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ ॥१.६१॥
स्वर रहित मन्त्र
त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना। यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥
स्वर रहित पद पाठत्वम् । असि । आऽवपनी । जनानाम् । अदिति: । कामऽदुघा । पप्रथाना । यत् । ते । ऊनम् । तत् । ते । आ । पूरयति । प्रजाऽपति: । प्रथमऽजा: । ऋतस्य ॥१.६१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 61
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६१−(त्वम्) (असि) (आवपनी) समन्ताद् बीजजनयित्री (जनानाम्) मनुष्याणाम् (अदितिः) अखण्डव्रता (कामदुघा) अ० ४।३४।८। मनोरथपूरयित्री (पप्रथाना) प्रथ प्रख्याने−कानच्। प्रख्याता (यत्) (ते) तव (ऊतम्) न्यूनम्। हीनम् (तत्) (ते) तव (आ) समन्तात् (पूरयाति) पूरयेत् (प्रजापतिः) जगत्पालकः परमेश्वरः (प्रथमजाः) अ० २।१।४। जन जनने−विट्, आत्त्वम्। प्रथमजनयिता (ऋतस्य) सत्यनियमस्य ॥
इस भाष्य को एडिट करें