अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 2
अ॑संबा॒धं ब॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु। नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ॥
स्वर सहित पद पाठअ॒स॒म्ऽबा॒धम् । म॒ध्य॒त: । मा॒न॒वाना॑म् । यस्या॑: । उ॒त्ऽवत॑: । प्र॒ऽवत॑: । स॒मम् । ब॒हु । नाना॑ऽवीर्या: । ओष॑धी: । या । बिभ॑र्ति । पृ॒थि॒वी । न॒: । प्र॒थ॒ता॒म् । राध्य॑ताम् । न॒: ॥१.२॥
स्वर रहित मन्त्र
असंबाधं बध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु। नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥
स्वर रहित पद पाठअसम्ऽबाधम् । मध्यत: । मानवानाम् । यस्या: । उत्ऽवत: । प्रऽवत: । समम् । बहु । नानाऽवीर्या: । ओषधी: । या । बिभर्ति । पृथिवी । न: । प्रथताम् । राध्यताम् । न: ॥१.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(असंबाधम्) अस गतिदीप्त्यादानेषु−अच्+संज्ञायां भृतॄवृजिधारि०। पा० ३।२।४६। बाधृ विलोडने−खच्, खित्वाद् मुम्। असं गतिं बाधते यः सः, असंबाधः। तं गतिनिरोधकं व्यवहारम् (बध्यतः) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। बध हिंसायाम्−अति, शतृवत्, छान्दसो यकारः। हिंसन्त्याः (मानवानाम्) अ० ४।२२।५। मनु−अण्, यद्वा मान−व प्रत्ययो मत्वर्थे। मननशीलानां मानवताम् (यस्याः) पृथिव्याः (उद्वतः) उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। उत्−वतिप्रत्ययः। प्रवत उद्वतो निवत इत्यवतिर्गतिकर्मा−निरु० १०।२०। उन्नतदेशाः (प्रवतः) पूर्ववत् सिद्धिः। प्रणतदेशाः (समम्) अविषमं स्थानम् (बहु) (नानावीर्याः) अनेकबलाः (ओषधीः) अ० १।३०।३। अन्नसोमलतादिपदार्थान् (या) (बिभर्ति) धरति (पृथिवी) (नः) अस्मभ्यम् (प्रथताम्) विस्तीर्यताम् (राध्यताम्) सिध्यतु (नः) अस्मभ्यम् ॥
इस भाष्य को एडिट करें