अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 33
याव॑त्ते॒ऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑। ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म् ॥
स्वर सहित पद पाठयाव॑त् । ते॒ । अ॒भि । वि॒ऽपश्या॑मि । भूमे॑ । सूर्ये॑ण । मे॒दिना॑ । ताव॑त् । मे॒ । चक्षु॑: । मा । मे॒ष्ट॒ । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१.३३॥
स्वर रहित मन्त्र
यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना। तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥
स्वर रहित पद पाठयावत् । ते । अभि । विऽपश्यामि । भूमे । सूर्येण । मेदिना । तावत् । मे । चक्षु: । मा । मेष्ट । उत्तराम्ऽउत्तराम् । समाम् ॥१.३३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 33
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३३−(यावत्) यत्परिमाणम् (ते) तव (अभि) अभितः (वि पश्यामि) विविधं दर्शनं करोमि (भूमे) (सूर्येण) आदित्येन (मेदिना) स्नेहिना (तावत्) तत्परिमाणम् (मे) मम (चक्षुः) दृष्टिः (मा मेष्ट) मीञ् हिंसायाम्−लुङ्, माङि अडभावः। न हिनस्तु (उत्तरामुत्तराम्) अ० ३।१७।४। अतिशयेनोत्कृष्टाम् (समाम्) अ० ३।१०।१। समक्रियाम्। अनुकूलक्रियाम् ॥
इस भाष्य को एडिट करें