Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 38
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - भूमि सूक्त

    यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑। ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑। यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥

    स्वर सहित पद पाठ

    यस्या॑म् । स॒दा॒ह॒वि॒र्धा॒ने इति॑ स॒द॒:ऽह॒वि॒र्धा॒ने । यूप॑: । यस्या॑म् । नि॒ऽमी॒यते॑ । ब्र॒ह्माण॑: । यस्या॑म् । अर्च॑न्ति । ऋ॒क्ऽभि: । साम्ना॑ । य॒जु॒:ऽविद॑: । यु॒ज्यन्ते॑ । यस्या॑म् । ऋ॒त्विज॑: । सोम॑म् । इन्द्रा॑य । पात॑वे ॥१.३८॥


    स्वर रहित मन्त्र

    यस्यां सदोहविर्धाने यूपो यस्यां निमीयते। ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः। युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥

    स्वर रहित पद पाठ

    यस्याम् । सदाहविर्धाने इति सद:ऽहविर्धाने । यूप: । यस्याम् । निऽमीयते । ब्रह्माण: । यस्याम् । अर्चन्ति । ऋक्ऽभि: । साम्ना । यजु:ऽविद: । युज्यन्ते । यस्याम् । ऋत्विज: । सोमम् । इन्द्राय । पातवे ॥१.३८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 38

    टिप्पणीः - ३८−(यस्याम्) भूम्याम् (सदोहविर्धाने) षद्लृ गतौ−असुन्, हु दानादानादनेषु−इसि। सभाऽन्नस्थानं च द्वे (यूपः) जयस्तम्भः (यस्याम्) (निमीयते) निक्षिप्यते (ब्रह्माणः) वेदवेत्तारः (यस्याम्) (अर्चन्ति) पूजयन्ति परमात्मानम् (ऋग्भिः) वेदवाग्भिः (साम्ना) मोक्षज्ञानेन (यजुर्विदः) अर्तिपॄवपियजि०। उ० २।११७। यज देवपूजायाम्−उसि+विद ज्ञाने−क्विप्। परमात्मपूजाज्ञातारः (युञ्जन्ते) युज समाधौ। समादधति (यस्याम्) (ऋत्विजः) अ० ६।२।१। सर्वेषु ऋतुषु परमात्मपूजनशीलाः (सोमम्) अमृतम्। मोक्षसुखम् (इन्द्राय) ऐश्वर्यवते पुरुषाय (पातवे) पा पाने−तवेन्। पानं कर्तुम् ॥

    इस भाष्य को एडिट करें
    Top