Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 5
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - भूमि सूक्त

    यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥

    स्वर सहित पद पाठ

    यस्या॑म् । पूर्वे॑ । पू॒र्व॒ऽज॒ना: । वि॒ऽच॒क्रि॒रे । यस्या॑म् । दे॒वा: । असु॑रान् । अ॒भि॒ऽअव॑र्तयन् । गवा॑म् । अश्वा॑नाम् । वय॑स: । च॒ । वि॒ऽस्था । भग॑म्। वर्च॑: । पृ॒थि॒वी । न॒: । द॒धा॒तु॒ ॥१.५॥


    स्वर रहित मन्त्र

    यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन्। गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥

    स्वर रहित पद पाठ

    यस्याम् । पूर्वे । पूर्वऽजना: । विऽचक्रिरे । यस्याम् । देवा: । असुरान् । अभिऽअवर्तयन् । गवाम् । अश्वानाम् । वयस: । च । विऽस्था । भगम्। वर्च: । पृथिवी । न: । दधातु ॥१.५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 5

    टिप्पणीः - ५−(यस्याम्) पृथिव्याम् (पूर्वे) पूर्वस्मिन् काले (पूर्वजनाः) पूर्वजाः पुरुषाः (विचक्रिरे) विशेषेण कर्तव्यानि कृतवन्तः (यस्याम्) (देवाः) विजिगीषवः (असुरान्) दुष्टान् (अभ्यवर्तयन्) अभिभूतवन्तः। पराजितवन्तः (गवाम्) धेनूनाम् (अश्वानाम्) घोटकानाम् (वयसः) अन्नस्य−निघ० २।७। (च) (विष्ठा) विशेषस्थितिस्थानम् (भगम्) ऐश्वर्यम् (वर्चः) तेजः (पृथिवी) (नः) अस्मभ्यम् (दधातु) ददातु ॥

    इस भाष्य को एडिट करें
    Top