Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 8
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रयवसाना षट्पदा विराडष्टिः सूक्तम् - भूमि सूक्त

    यार्ण॒वेऽधि॑ सलि॒लमग्र॒ आसी॒द्यां मा॒याभि॑र॒न्वच॑रन्मनी॒षिणः॑। यस्या॒ हृद॑यं पर॒मे व्योमन्त्स॒त्येनावृ॑तम॒मृतं॑ पृथि॒व्याः। सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे ॥

    स्वर सहित पद पाठ

    या । अ॒र्ण॒वे । अधि॑ । स॒लि॒लम् । अग्ने॑ । आसी॑त् । याम् । मा॒याभि॑: । अ॒नु॒ऽअच॑रन् । म॒नी॒षिण॑: । यस्या॑: । हृद॑यम् । प॒र॒मे । विऽओ॑मन् । स॒त्येन॑ । आऽवृ॑तम् । अ॒मृत॑म् । पृ॒थि॒व्या: । सा । न॒: । भूमि॑: । त्विषि॑म् । बल॑म् । रा॒ष्ट्रे । द॒धा॒तु॒ । उ॒त्ऽत॒मे ॥१.८॥


    स्वर रहित मन्त्र

    यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः। यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः। सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥

    स्वर रहित पद पाठ

    या । अर्णवे । अधि । सलिलम् । अग्ने । आसीत् । याम् । मायाभि: । अनुऽअचरन् । मनीषिण: । यस्या: । हृदयम् । परमे । विऽओमन् । सत्येन । आऽवृतम् । अमृतम् । पृथिव्या: । सा । न: । भूमि: । त्विषिम् । बलम् । राष्ट्रे । दधातु । उत्ऽतमे ॥१.८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 8

    टिप्पणीः - ८−(या) भूमिः (अर्णवे) जलवति समुद्रे (अधि) ऊपरि (सलिलम्) उदकम्−निघ० १।१२। वाष्परूपम् (अग्रे) सृष्ट्यादौ (आसीत्) (मायाभिः) प्रज्ञाभिः−निघ० ३।९। (अन्वचरन्) अन्वगच्छन्। सेवितवन्तः (मनीषिणः) मेधाविनः−निघ० ३।१५। (यस्याः) (हृदयम्) अन्तर्बलम् (परमे) महति (व्योमन्) अ० ९।१०।१८। विविधं रक्षके। आकाशे (सत्येन) अविनाशिना परमात्मना (आवृतम्) आच्छादितम् (अमृतम्) मरणरहितम्। उत्पादनसमर्थम् (पृथिव्याः) (सा) (नः) अस्मभ्यम् (भूमिः) (त्विषिम्) तेजः (बलम्) सामर्थ्यम् (राष्ट्रे) राज्ये (दधातु) ददातु (उत्तमे) सर्वोत्कृष्टे ॥

    इस भाष्य को एडिट करें
    Top