अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 22
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा विराडतिजगती
सूक्तम् - भूमि सूक्त
भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑। सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥
स्वर सहित पद पाठभूम्या॑म् । दे॒वेभ्य॑: । द॒द॒ति॒ । य॒ज्ञम् । ह॒व्यम् । अर॑म्ऽकृतम् । भूम्या॑म् । म॒नु॒ष्या᳡: । जी॒व॒न्ति॒ । स्व॒धया॑ । अन्ने॑न । मर्त्या॑: । सा । न॒: । भूमि॑: । प्रा॒णम् । आयु॑: । द॒धा॒तु॒ । ज॒रत्ऽअ॑ष्टिम् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.२२॥
स्वर रहित मन्त्र
भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम्। भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः। सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥
स्वर रहित पद पाठभूम्याम् । देवेभ्य: । ददति । यज्ञम् । हव्यम् । अरम्ऽकृतम् । भूम्याम् । मनुष्या: । जीवन्ति । स्वधया । अन्नेन । मर्त्या: । सा । न: । भूमि: । प्राणम् । आयु: । दधातु । जरत्ऽअष्टिम् । मा । पृथिवी । कृणोतु ॥१.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(भूम्याम्) (देवेभ्यः) कमनीयगुणानां प्राप्तये (ददति) प्रयच्छन्ति (यज्ञम्) संगतिव्यवहारम् (हव्यम्) दानादानयोग्यम् (अरंकृतम्) अलम्+करोतेः−क्विप्। शोभितं शक्तिमन्तं वा करोतीति तम् (भूम्याम्) (मनुष्याः) (जीवन्ति) प्राणान् धारयन्ति (स्वधया) स्व+दधातेः क्विप्। आत्मधारणशक्त्या (अन्नेन) जीवनसाधनेन (मर्त्याः) (सा) (नः) अस्मभ्यम् (प्राणम्) आत्मबलम् (आयुः) जीवनम् (दधातु) ददातु (जरदष्टिम्) अ० २।२८।५। जीर्यतेरतृन् पा० ३।२।१०४। जॄ स्तुतौ−अतृन्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। अशू व्याप्तौ अश भोजने च−क्तिन्। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्भोजनं वा यस्य तम् (मा) माम् (पृथिवी) भूमिः (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें