अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 34
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्बृगतीगर्भातिजगती
सूक्तम् - भूमि सूक्त
यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒ख्यम॒भि भू॑मे पा॒र्श्वम्। उ॒त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत्पृ॒ष्टीभि॑रधि॒शेम॑हे। मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि ॥
स्वर सहित पद पाठयत् । शया॑न: । प॒रि॒ऽआव॑र्ते । दक्षि॑णम् । स॒व्यम् । अ॒भि । भू॒मे॒ । पा॒र्श्वम् । उ॒त्ता॒ना: । त्वा॒ । प्र॒तीची॑म् । यत् । पृ॒ष्टीभि॑: । अ॒धि॒ऽशेम॑हे । मा । हिं॒सी॒: । तत्र॑ । न॒: । भू॒मे॒ । सर्व॑स्य । प्र॒ति॒ऽशी॒व॒रि॒ ॥१.३४॥
स्वर रहित मन्त्र
यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वम्। उत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे। मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥
स्वर रहित पद पाठयत् । शयान: । परिऽआवर्ते । दक्षिणम् । सव्यम् । अभि । भूमे । पार्श्वम् । उत्ताना: । त्वा । प्रतीचीम् । यत् । पृष्टीभि: । अधिऽशेमहे । मा । हिंसी: । तत्र । न: । भूमे । सर्वस्य । प्रतिऽशीवरि ॥१.३४॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(यत्) यदा (शयानः) शयनं कुर्वन् (पर्यावर्ते) परिलुष्ठामि (दक्षिणम्) (सव्यम्) वामम् (भूमे) (पार्श्वम्) कक्षाधोभागम् (उत्तानाः) उत्+तनु विस्तारे−घञ्। ऊर्ध्वमुखशयानाः (त्वा) भूमिम् (प्रतीचीम्) प्रत्यक्षमञ्चन्ती प्राप्नुवतीम् (यत्) यदा (पृष्टीभिः) पार्श्वास्थिभिः (अधिशेमहे) शयनं कुर्मः (मा हिंसीः) मा वधीः (तत्र) तस्मिन् काले (नः) अस्मान् (भूमे) (सर्वस्य) (प्रतिशीवरि) शीङ्क्रुशिरुहि०। उ० ४।११४। शीङ् स्वप्ने−क्वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। प्राणिनः प्रत्यक्षं शेरतेऽस्यां सा प्रतिशीवरी तत्सम्बुद्धौ ॥
इस भाष्य को एडिट करें