Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 52
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पञ्चपदानुष्टुब्गर्भा परातिजगती सूक्तम् - भूमि सूक्त

    यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑। व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ॥

    स्वर सहित पद पाठ

    यस्या॑म् । कृ॒ष्णम् । अ॒रु॒णम् । च॒ । संहि॑ते इति॒ सम्ऽहि॑ते । अ॒हो॒रा॒त्रे इति॑ । विहि॑ते॒ इति॒ विऽहि॑ते । भूम्या॑म् । अधि॑ । व॒र्षेण॑ । भूमि॑: । पृ॒थि॒वी । वृ॒ता । आऽवृ॑ता । सा । न॒: । द॒धा॒तु॒ । भ॒द्रया॑ । प्रि॒ये । धाम॑निऽधामनि ॥१.५२॥


    स्वर रहित मन्त्र

    यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि। वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥

    स्वर रहित पद पाठ

    यस्याम् । कृष्णम् । अरुणम् । च । संहिते इति सम्ऽहिते । अहोरात्रे इति । विहिते इति विऽहिते । भूम्याम् । अधि । वर्षेण । भूमि: । पृथिवी । वृता । आऽवृता । सा । न: । दधातु । भद्रया । प्रिये । धामनिऽधामनि ॥१.५२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 52

    टिप्पणीः - ५२−(यस्याम्) (कृष्णम्) कृष्णवर्णम् (अरुणम्) अरुण−अर्शआद्यच्। सूर्येण युक्तम् (च) (संहिते) परस्परमिलिते (अहोरात्रे) रात्रिदिने (विहिते) विधानेन स्थापिते (भूम्याम्) (अधि) उपरि (वर्षेण) वृष्ट्या (भूमिः) (पृथिवी) विस्तृता (वृता) वेष्टिता (आवृता) आच्छादिता (सा) (नः) अस्मान् (दधातु) धरतु (भद्रया) कल्याण्या मेधया (प्रिये) हितकरे (धामनिधामनि) प्रत्येकस्थाने ॥

    इस भाष्य को एडिट करें
    Top