Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 18
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा शक्वरी सूक्तम् - भूमि सूक्त

    म॒हत्स॒धस्थं॑ मह॒ती ब॒भूवि॑थ म॒हान्वेग॑ ए॒जथु॑र्वे॒पथु॑ष्टे। म॒हांस्त्वेन्द्रो॑ रक्ष॒त्यप्र॑मादम्। सा नो॑ भूमे॒ प्र रो॑चय॒ हिर॑ण्यस्येव सं॒दृशि॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

    स्वर सहित पद पाठ

    म॒हत् । स॒धऽस्थ॑म् । म॒ह॒ती । ब॒भू॒वि॒थ॒ । म॒हान् । वेग॑: । ए॒जथु॑: । वे॒पथु॑: । ते॒ । म॒हान् । त्वा॒ । इन्द्र॑: । र॒क्ष॒ति॒ । अप्र॑ऽमादम् । सा । न॒: ।भू॒मे॒ । प्र । रो॒च॒य॒ । हिर॑ण्यस्यऽइव । स॒म्ऽदृशि॑ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । चन ॥१.१८॥


    स्वर रहित मन्त्र

    महत्सधस्थं महती बभूविथ महान्वेग एजथुर्वेपथुष्टे। महांस्त्वेन्द्रो रक्षत्यप्रमादम्। सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥

    स्वर रहित पद पाठ

    महत् । सधऽस्थम् । महती । बभूविथ । महान् । वेग: । एजथु: । वेपथु: । ते । महान् । त्वा । इन्द्र: । रक्षति । अप्रऽमादम् । सा । न: ।भूमे । प्र । रोचय । हिरण्यस्यऽइव । सम्ऽदृशि । मा । न: । द्विक्षत । क: । चन ॥१.१८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 18

    टिप्पणीः - १८−(महत्) बृहत् (सधस्थम्) सहस्थानम् (महती) विशाला (बभूविथ) (महान्) विपुलः (वेगः) जवः (एजथुः) ट्वितोऽथुच्। पा० ३।३।८९। एजृ कम्पने−अथुच्, बाहुलकात्। चेष्टाव्यवहारः (वेपथुः) टुवेपृ कम्पने−अथुच्। कम्पः (ते) तव (महान्) पूजनीयः (त्वा) त्वाम् (इन्द्रः) ऐश्वर्यवान् पुरुषः (रक्षति) पालयति (अप्रमादम्) सावधानम् (सा) सा त्वम् (नः) अस्मान् (भूमेः) (प्र) प्रकर्षेण (रोचय) प्रकाशय (हिरण्यस्य इव) सुवर्णस्य यथा (संदृशि) संदर्शने स्वरूपे (नः) अस्मान् (मा द्विक्षत) न द्विष्यात् (कश्चन) कोऽपि ॥

    इस भाष्य को एडिट करें
    Top