अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 23
यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
स्वर सहित पद पाठय: । ते॒ । ग॒न्ध: । पृ॒थि॒वि॒ । स॒म्ऽब॒भूव॑ । यम् । बिभ्र॑ति । ओष॑धय: । यम् । आप॑: । यम् । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । भे॒जि॒रे । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒: । द्वि॒क्षत । क: । चन ॥१.२३॥
स्वर रहित मन्त्र
यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः। यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥
स्वर रहित पद पाठय: । ते । गन्ध: । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधय: । यम् । आप: । यम् । गन्धर्वा: । अप्सरस: । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । न: । द्विक्षत । क: । चन ॥१.२३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(यः) (ते) तव (गन्धः) घ्राणग्राह्यो गुणभेदः। लेशः (पृथिवी) (संबभूव) उत्पन्नो बभूव (यम्) गन्धम् (बिभ्रति) धारयन्ति (ओषधयः) अन्नसोमलतादयः (यम्) (आपः) जलानि (गन्धर्वाः) अ० ४।३७।२। कॄगॄशॄदॄभ्यो वः। उ० १।१५५। गो+धृञ् धारणे−व प्रत्ययः, गो शब्दस्य गमादेशः। गोर्भूमेर्धारकाः प्राणिनः (अप्सरसः) अ० ४।३७।२। अप्+सृ गतौ−असि। अप्सु आकाशे जले वा सरणशीला जीवा लोकाश्च (च) (भेजिरे) सेवितवन्तः (तेन) गन्धेन (मा) माम् (सुरभिम्) सुर ऐश्वर्यदीप्त्योरित्यस्माद् बाहुलकादौणादिकोऽमिच् प्रत्ययः−इति दयानन्दो यजु० १२।३५। ऐश्वर्यवन्तम् (कृणु) कुरु। अन्यद्गतम्−म० १८ ॥
इस भाष्य को एडिट करें