अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 6
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - भूमि सूक्त
वि॑श्वंभ॒रा व॑सु॒धानी॑ प्रति॒ष्ठा हिर॑ण्यवक्षा॒ जग॑तो नि॒वेश॑नी। वै॑श्वान॒रं बिभ्र॑ती॒ भूमि॑र॒ग्निमिन्द्रऋ॑षभा॒ द्रवि॑णे नो दधातु ॥
स्वर सहित पद पाठवि॒श्व॒म्ऽभ॒रा । व॒सु॒ऽधानी॑ । प्र॒ति॒ऽस्था । हिर॑ण्यऽवक्षा: । जग॑त: । नि॒ऽवेश॑नी । वै॒श्वा॒न॒रम् । बिभ्र॑ती । भूमि॑: । अ॒ग्निम् । इन्द्र॑ऽऋषभा । द्रवि॑णे । न॒: । द॒धा॒तु॒ ॥१.६॥
स्वर रहित मन्त्र
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी। वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥
स्वर रहित पद पाठविश्वम्ऽभरा । वसुऽधानी । प्रतिऽस्था । हिरण्यऽवक्षा: । जगत: । निऽवेशनी । वैश्वानरम् । बिभ्रती । भूमि: । अग्निम् । इन्द्रऽऋषभा । द्रविणे । न: । दधातु ॥१.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(विश्वम्भरा) संज्ञायां भृतॄवृजि०। पा०। ३।२।४६। विश्व+डुभृञ् धारणपोषणयोः−खच्, मुम्। सर्वधात्री (वसुधानी) धनानां धर्त्री (प्रतिष्ठा) दृढाधारभूता (हिरण्यवक्षाः) सुवर्णादीनि वक्षसि मध्ये यस्याः सा (जगतः) जङ्गमस्य गतिमतः पुरुषस्य (निवेशनी) सुखस्य प्रवेशयित्री दात्री (वैश्वानरं) सर्वनरहितम् (बिभ्रती) पोषयन्ती (भूमिः) (अग्निम्) अग्निवत्प्रतापिनं मनुष्यम् (इन्द्रऋषभा) इन्द्रः परमेश्वरो मनुष्यः सूर्यो वा ऋषभः। प्रधानो यस्याः सा (द्रविणे) बले−निघ० २।९। धने−निघ० २।१०। (नः) अस्मान् (दधातु) धरतु ॥
इस भाष्य को एडिट करें