Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 10
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - भूमि सूक्त

    याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे। इन्द्रो॒ यां च॒क्र आ॒त्मने॑ऽनमि॒त्रां शची॒पतिः॑। सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥

    स्वर सहित पद पाठ

    याम् । अ॒श्विनौ॑ । अमि॑माताम् । विष्णु॑: । यस्या॑म् । वि॒ऽच॒क्र॒मे । इन्द्र॑: । याम् । च॒क्रे । आ॒त्मने॑ । अ॒न॒मि॒त्राम् । शची॒ऽपति॑: । सा । न॒: । भूमि॑: । वि । सृ॒ज॒ता॒म् । मा॒ता । पु॒त्राय॑ । मे॒ । पय॑: ॥१.१०॥


    स्वर रहित मन्त्र

    यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे। इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः। सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥

    स्वर रहित पद पाठ

    याम् । अश्विनौ । अमिमाताम् । विष्णु: । यस्याम् । विऽचक्रमे । इन्द्र: । याम् । चक्रे । आत्मने । अनमित्राम् । शचीऽपति: । सा । न: । भूमि: । वि । सृजताम् । माता । पुत्राय । मे । पय: ॥१.१०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 10

    टिप्पणीः - १०−(याम्) भूमिम् (अश्विनौ) अ० २।२९।६। अहोरात्रौ−निरु० १२।१। (अमिमाताम्) माङ् माने शब्दे च−लङ्। परिमितां कृतवन्तौ (विष्णुः) व्यापकः सूर्यः (यस्याम्) भूम्याम् (विचक्रमे) पादविक्षेपं कृतवान् (इन्द्रः) ऐश्वर्यवान् जीवः (याम्) (चक्रे) कृतवान् (आत्मने) स्वहिताय (अनमित्राम्) शत्रुरहिताम् (शचीपतिः) अ० ३।१०।१२। शची=वाक्−निघ० १।११, कर्म−२।१, प्रज्ञा−३।९। शचीनां वाचां कर्मणां प्रज्ञानां वा पालकः (सा) (नः) अस्मभ्यम्। अस्माकं सर्वेषां हिताय (भूमिः) (वि) विविधम् (सृजताम्) ददातु (माता) जननी (पुत्राय) (मे) मह्यम् (पयः) अन्नम्। दुग्धम् ॥

    इस भाष्य को एडिट करें
    Top